अस्मिन् वर्षे श्रावणमासस्य प्रथमदिने (ऑगस्टमासस्य १७ दिनांके) अस्माकं वसन्तराव धेम्पो उच्च माध्यमिक विद्यालये श्रीमद् भगवद्गीतापठनस्य प्रारम्भः जातः। अस्माकं विद्यालयस्य संस्कृतशिक्षिका सौ. श्रुती सरमोकादम तथा च संस्कृतछात्राः मिलित्वा प्रतिदिनं प्रातःकाले प्रार्थनासभायां राष्ट्रगीतात् अनन्तरं भगवद्गीतायाः श्लोकद्वयं पाठयन्ति। विद्यालयस्य सर्वे छात्राः, शिक्षकाः, कर्मचारी वर्गः च मिलित्वा श्लोकान् अनुपठन्ति। अस्मिन् उपक्रमे भगवद्गीतायाः १२ तथा च १५ अध्याययोः पठनं भविष्यति। आगामी डिसेम्बरमासस्य १८ दिनांकात् पूर्वं सर्वैः द्वयोः अपि अध्याययोः पठनं करणीयम् इति अस्माकं संकल्पः अस्ति। अस्य उपक्रमाय विद्यालयस्य प्राचार्या मान्या सौ. सुरेखा केळकर महोदया, सर्वे शिक्षकाः अपि सम्यक् सहयोगं ददति।