अस्मिन् वर्षे डिसेम्बरमासे गोवाराज्ये ७ विभागे सामूहिक भगवद्गीतापठनं सम्पन्नं जातम् । अस्मिन् कार्यक्रमे १३७ विद्यालयेषु आहत्य २०००० छात्राः भगवद्गीतायाः १२ तथा च १५ अध्याययोः पठनं कृतवन्तः। अस्माकं धेंपो उच्च माध्यमिक विद्यालयस्य ४५० छात्राः अपि सम्मिलिताः आसन् । संस्कृतभारती संस्थया आयोजिते  एतस्य सम्पूर्ण कार्यक्रमस्य स्मरणिका-प्रकाशनम् अस्माकं विद्यालयस्य दृक्-श्राव्यप्रकोष्ठे (AV room)  सम्पन्नं जातम्। अस्मिन् वर्षे जानेवारीमासस्य ६ दिनाङ्के सायङ्काले ४ वादने आयोजिते अस्मिन् कार्यक्रमे संस्कृतभारती-संस्थायाः अखिल भारतीय महामन्त्री श्री. सत्यनारायण भट महोदयः तथा च गोवा वैद्यकीय महाविद्यालयस्य प्रख्यातः हृदयशल्यविशारदः श्री. शिरीष बोरकरः महोदयः प्रमुखातिथिः रुपेण उपस्थिताः आसन् । अस्मिन् कार्यक्रमे संस्कृतभारती-संस्थायाः कार्यकर्तारः , पालकाः , शिक्षकाः च उपस्थिताः आसन् । अतिथयः सर्वान् उद्बोधितवन्तः अग्रिम – योजनाविषये सम्यक् मार्गदर्शनं च कृतवन्तः। कार्यकर्तारः शिक्षकाः च स्वान् अनुभवान् प्रकटीकृतवन्तः।

अस्माकं विद्यालयस्य श्री. गजाननः तान्त्रिकी सहाय्यं कृतवान् ।

विद्यालयस्य प्राचार्या श्रीमती मीनाक्षी मुदालियर महोदयायाः विशेषसाहाय्येन अयं कार्यक्रमः सम्पन्नः जातः ।